वांछित मन्त्र चुनें

स॒हस्र॑धा॒रेऽव॒ ते सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चत॑: । अस्य॒ स्पशो॒ न नि मि॑षन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिन॑: सन्ति॒ सेत॑वः ॥

अंग्रेज़ी लिप्यंतरण

sahasradhāre va te sam asvaran divo nāke madhujihvā asaścataḥ | asya spaśo na ni miṣanti bhūrṇayaḥ pade-pade pāśinaḥ santi setavaḥ ||

पद पाठ

स॒हस्र॑ऽधारे । अव॑ । ते । सम् । अ॒स॒र॒न् । दि॒वः । नाके॑ । मधु॑ऽझ्वाः । अ॒स॒श्चतः॑ । अस्य॑ । स्पशः॑ । न । नि । मि॒ष॒न्ति॒ । भूर्ण॑यः । प॒देऽप॑दे । पा॒शिनः॑ । स॒न्ति॒ सेत॑वः ॥ ९.७३.४

ऋग्वेद » मण्डल:9» सूक्त:73» मन्त्र:4 | अष्टक:7» अध्याय:2» वर्ग:29» मन्त्र:4 | मण्डल:9» अनुवाक:4» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! (ते) आपके (सेतवः) मर्यादारूप सेतु (पदेपदे सन्ति) पद-पद पर हैं और वे मर्यादारूप सेतु (पाशिनः) पापियों के दण्डदाता हैं। (भूर्णयः) शीघ्रता करनेवाले हैं और (न निमिषन्ति) उनके सामने कोई आँख उठाकर नहीं देख सकता। (अस्य) उस परमात्मा के (स्पशः) सारभूत (असश्चतः) अनन्त ज्योतियें हैं। हे परमात्मन् ! आप (सहस्रधारे) अनन्त आनन्दस्वरूप में (अव) हमारी रक्षा करें और (दिवः नाके) द्युलोक के मध्य में (समस्वरन्) स्रवित होते हुए आपके आनन्द (मधुजिह्वा) जो अत्यन्त आह्लादजनक हैं, वे हमको प्राप्त हों ॥४॥
भावार्थभाषाः - परमात्मा के आनन्द की सहस्त्रों धाराएँ इस संसार में इतस्ततः सर्वत्र बह रही हैं। जो पुरुष परमात्मा की आज्ञाओं का पालन करता है, वही उन आनन्दों को प्राप्त करता है, अन्य नहीं ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे जगन्नियन्तः परमेश्वर ! (ते) तव (सेतवः) मर्यादारूपाः सेतवः (पदेपदे सन्ति) स्थाने स्थाने विद्यन्ते। अथ च ते मर्यादासेतवः (पाशिनः) पापिभ्यो दण्डदातारः। तथा (भूर्णयः) क्षिप्रकारिणस्सन्ति। अथ च (न निमिषन्ति) तदवमानं कृत्वा न कोऽपि स्थातुं शक्नोति। (अस्य) अमुष्य परमात्मनः (स्पशः) सारभूतानि (असश्चतः) अनन्तानि ज्योतींषि सन्ति। हे परमात्मन्   ! भवान् (सहस्रधारे) अनन्तानन्दस्वरूपे (अव) मम रक्षां करोतु। तथा (दिवः नाके) द्युलोकमध्ये (समस्वरन्) ये स्यन्दमाना भवदानन्दाः (मधुजिह्वा) ये आह्लादनीयास्ते मां प्राप्नुवन्तु ॥४॥